वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: त्रय ऋषयः छन्द: जगती स्वर: निषादः काण्ड:

गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥

मन्त्र उच्चारण
पद पाठ

गो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 955 | (कौथोम) 3 » 2 » 1 » 1 | (रानायाणीय) 6 » 1 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में सोम नाम से परमात्मा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्वी तथा ऐश्वर्य की वर्षा करनेवाले परमात्मन् ! (गोवित्) गौएँ प्राप्त करानेवाले, (वसुवित्) धन प्राप्त करानेवाले और (हिरण्यवित्) सुवर्ण प्राप्त करानेवाले आप (पवस्व) हमें पवित्र करो। (रेतोधाः) वीर्यप्रदाता आप (भुवनेषु) लोकों में (अर्पितः) व्याप्त हो। हे (सोम) सर्वोत्पादक परमात्मन् ! (त्वम्) आप (सुवीरः) श्रेष्ठ वीर प्राप्त करानेवाले और (विश्ववित्) सर्वज्ञाता (असि) हो। (तं त्वा) ऐसे आपकी (इमे) ये (नरः) उपासक जन (गिरा) स्तुतिवाणी से (उप आसते) उपासना कर रहे हैं ॥१॥

भावार्थभाषाः -

जगदीश्वर ने ही हमारे उपयोग के लिए बहुमूल्य सब पदार्थ निःशुल्क दिये हुए हैं। ऐसे उपकारक उसको हम कृतज्ञता के साथ स्मरण क्यों न करें ? ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमनाम्ना परमात्मविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन् ऐश्वर्यवर्षक परमात्मन् ! (गोवित्) गवां लम्भकः, (वसुवित्) धनानां लम्भकः, (हिरण्यवित्) सुवर्णानां लम्भकश्च त्वम् (पवस्व) अस्मान् पुनीहि। (रेतोधाः) वीर्यप्रदाता त्वम् (भुवनेषु) लोकेषु (अर्पितः) व्याप्तः असि। हे (सोम)सर्वोत्पादक परमात्मन् ! (त्वम् सुवीरः) श्रेष्ठानां वीराणां प्रापकः (विश्ववित्) सर्वज्ञः च (असि) वर्तसे।(तं त्वा) तादृशं त्वाम् (इमे) एते (नरः) उपासकाः जनाः (गिरा) स्तुतिवाचा (उप आसते) उपतिष्ठन्ते ॥१॥

भावार्थभाषाः -

जगदीश्वरेणैवास्माकमुपयोगाय बहुमूल्याः सर्वे पदार्था निश्शुल्कं प्रदत्ताः सन्ति। एतावदुपकारकः स कृतज्ञतयाऽस्माभिः कुतो न स्मरणीयः ॥१॥

टिप्पणी: १. ऋ० ९।८६।३९ ‘नर’ इत्यत्र ‘विप्रा’ इति पाठः।